|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.225. अध्यायः 225
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
पार्वत्या परमेश्वरंप्रति प्राणिनां शुभाशुभफलयोर्मध्ये कस्य पूर्वोपभोग इति प्रश्नः॥ 1 ॥ परमेश्वरेण तांप्रति सदृष्टान्तप्रदर्शनं तयोर्यौगपद्येनोपभोगकथनम्॥ 2 ॥ तथा पूर्वकर्मणामल्पायुष्ट्वादिकारणत्वाभिधानम्॥ 3 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
भगवन्भगनेत्रघ्न मानुषाणां विचेष्टितम्।
सर्वमात्मकृतं चेति श्रुतं मे भगवन्मतम्॥ 13-225-1(90233)
लोके ग्रहकृतं सर्वं मत्वा कर्म शुभाशुभम्।
तदेव ग्रहनक्षत्रं प्रायशः पर्युपासते।
एष मे संशयो देव तं मे त्वं छेत्तुमर्हसि॥ 13-225-2(90234)
महेश्वर उवाच। 13-225-3x(7583)
स्थाने संशयितं देवि शृणु तत्वविनिश्चयम्॥ 13-225-3(90235)
नक्षत्राणि ग्रहाश्चैव शुभाशुभनिवेदकाः।
मानवानां महाभागे न तु कर्मकराः स्वयम्॥ 13-225-4(90236)
प्रजानां तु हितार्थाय शुभाशुभविधिं प्रति।
अनागतमतिक्रान्तं ज्योतिश्चक्रेण बोध्यते॥ 13-225-5(90237)
किन्तु तत्र शुभं कर्म सुग्रहैस्तु निवेद्यते।
दुष्कृतस्याशुभैरेव समावायो भवेदिति॥ 13-225-6(90238)
तस्मात्तु ग्रहवैषम्ये विषमं कुरुते जनः।
ग्रहसाम्ये शुभं कुर्याज्ज्ञात्वाऽऽत्मानं तथा कृतम्॥ 13-225-7(90239)
केवलं ग्रहनक्षत्रं न करोति शुभाशुभम्।
सर्वमात्मकृतं कर्म लोकवादो ग्रहा इति॥ 13-225-8(90240)
पृथग्ग्रहाः पृथक्कर्ता कर्ता स्वं भुञ्जते फलम्।
इति ते कथितं सर्वं विशङ्कां जहि शोभने॥ 13-225-9(90241)
उमोवाच। 13-225-10x(7584)
भगवन्विविधं कर्म कृत्वा जन्तुः शुभाशुभम्।
किं तयोः पूर्वकतरं भुङ्क्ते जन्मान्तरे पुनः।
एष मे संशयो देव तं मे त्वं छेत्तुमर्हसि॥ 13-225-10(90242)
महेश्वर उवाच। 13-225-11x(7585)
स्थाने संशयितं देवि तत्ते वक्ष्यामि तत्वतः॥
अशुभं पूर्वमित्याहुरपरे शुभमित्यपि। 13-225-11(90243)
मिथ्या तदुभयं प्रोक्तं केवलं तद्ब्रवीमि ते॥ 13-225-12(90244)
मानुषे तु पदे कर्म युगपद्भुज्यते सदा।
यथाकृतं यथायोगमुभयं भुज्यते क्रमात्॥ 13-225-13(90245)
भुञ्जानाश्चापि दृश्यन्ते क्रमशो भुवि मानवाः।
ऋद्धिं हानिं सुखं दुःखं तत्सर्वमुभयं भयम्॥ 13-225-14(90246)
दुःखान्यनुभवन्त्याढ्या दरिद्राश्च सुखानि च।
यौगपद्याद्धि भुञ्जाना दृश्यन्ते लोकसाक्षिकम्॥ 13-225-15(90247)
नरके स्वर्गलोके च न तथा संस्थितिः प्रिये।
नित्यं दुःखं हि नरके स्वर्गे नित्यं सुखं तथा॥ 13-225-16(90248)
शुभाशुभानामाधिक्यं कर्मणां तत्र सेव्यते।
निरन्तरं सुखं दुःखं स्वर्गे च नरके भवेत्॥ 13-225-17(90249)
तत्रापि सुमहद्भुक्त्वा पूर्वमल्पं पुनः शुभे।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि॥ 13-225-18(90250)
उमोवाच। 13-225-19x(7586)
भगवन्प्राणिनो लोके म्रियन्ते केन हेतुना।
जाताजाता न तिष्ठन्ति तन्मे शंसितुमर्हसि॥ 13-225-19(90251)
महेश्वर उवाच। 13-225-20x(7587)
तदहं ते प्रवक्ष्यामि शृणु सत्यं समाहिता।
आत्मा कर्मक्षयाद्देहं यथा मुञ्चति तच्छृणु॥ 13-225-20(90252)
शरीरात्मसमाहारो जन्तुरित्यभिधीयते।
तत्रात्मानं नित्यमाहुरनित्यं क्षेत्रिमुच्यते॥ 13-225-21(90253)
एवं कालेन सङ्क्रान्तं शरीरं जर्झरीकृतम्।
अकर्मयोग्यं संशीर्णं त्यक्त्वा देही ततो व्रजेत्॥ 13-225-22(90254)
नित्यस्यानित्यसंत्यागाल्लोके तन्मरणं विदुः।
कालं नातिक्रमेरन्हि सदेवासुरमानवाः॥ 13-225-23(90255)
यथाऽऽकाशे न तिष्ठेत द्रव्यं किञ्चिदचेतनम्।
तथा धावति कालोऽयं क्षणं किञ्चिन्न तिष्ठति॥ 13-225-24(90256)
स पुनर्जायतेऽन्यत्र शरीरं नवमाविशन्।
एवंलोकगतिर्नित्यमादिप्रभृति वर्तते॥ 13-225-25(90257)
उमोवाच। 13-225-26x(7588)
भगवन्प्राणिनो बाला दृश्यन्ते मरणं गताः।
अतिवृद्धाश्च जीवन्तो दृश्यन्ते चिरजीविनः॥ 13-225-26(90258)
केवलं कालमरणं न प्रमाणं महेश्वर।
तस्मान्मे संशय ब्रूहि प्राणिनां जीवकारणम्॥ 13-225-27(90259)
महेश्वर उवाच। 13-225-28x(7589)
शृणु तत्कारणं देवि निर्णयस्त्वेक एव सः।
जीर्णत्वमात्रं कुरुते कालो देहं न पातयेत्॥ 13-225-28(90260)
जीर्णे कर्मणि संघातः स्वयमेव विशीर्यते।
पूर्वकर्मप्रमाणेन जीवितं मृत्युरेव वा॥ 13-225-29(90261)
यावत्पूर्वकृतं कर्म तावज्जीवति मानवः।
तत्र कर्मवशाद्बाला म्रियन्ते कालसंक्षयात्॥ 13-225-30(90262)
चिरं जीवन्ति वृद्धाश्च तथा कर्मप्रमाणतः।
इति ते कथितं देवि निर्विशङ्का भव प्रिये॥ 13-225-31(90263)
उमोवाच। 13-225-32x(7590)
भगवन्केन वृत्तेन भवन्ति चिरजीविनः।
अल्पायुषो नराः केन तन्मे शंसितुमर्हसि॥ 13-225-32(90264)
महेश्वर उवाच। 13-225-33x(7591)
शृणु तत्सर्वमखिलं गुह्यं पथ्यतरं नृणाम्।
येन वृत्तेन सम्पन्ना भवन्ति चिरजीविनः॥ 13-225-33(90265)
अहिंसा सत्यवचनमक्रोधः क्षीन्तिरार्जवम्।
गुरूणां नित्यशुश्रूषा वृद्धानामपि पूजनम्॥ 13-225-34(90266)
शौचादकार्यसंत्यागात्सदा पथ्यस्य भोजनम्।
एवमादिगुणं वृत्तं नराणां दीर्घजीविनाम्॥ 13-225-35(90267)
तपसा ब्रह्मचर्येण रसायननिषेवणात्।
उदग्रसत्त्वा बलिनो भवन्ति चिरजीविनः।
स्वर्गे वा मानुषे वाऽपि चिरं तिष्ठन्ति धार्मिकाः 13-225-36(90268)
अपरे पापकर्माणः प्रायशोऽनृतवादिनः।
हिंसाप्रिया गुरुद्विष्टा निष्क्रियाः शौचवर्जिताः॥ 13-225-37(90269)
नास्तिका घोरकर्माणः सततं मांसपानपाः।
पापाचारा गुरुद्विष्टाः कोपनाः कलहप्रियाः॥ 13-225-38(90270)
एवमेवाशुभाचारास्तिष्ठन्ति नरके चिरम्।
तिर्यग्योनौ तथाऽत्यन्तमल्पास्तिष्ठन्ति मानवाः।
तस्मादल्पायुषो मर्त्यास्तादृशाः सम्भवन्ति ते॥ 13-225-39(90271)
अगम्यदेशगमनादपथ्यानां च भोजनात्।
आयुःक्षयो भवेन्नॄणामायुःक्षयकरा हि ते॥ 13-225-40(90272)
भवन्त्यल्पायुषस्तैस्तैरन्यथा चिरजीविनः।
एतत्ते कथितं सर्वं भूयः श्रोतुं किमिच्छसि॥ ॥ 13-225-41(90273)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चविँशत्यधिकद्विशततमोऽध्यायः॥ 225 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|